य यतित्येतौ यौ तद्धितावतदर्थे वर्तते तदन्तस्य उत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति। पाशानां समूहः पाश्या, न पाश्या अपाश्या। अतृण्या। यत् दन्तेषु भवं दन्त्यम्, न दन्त्यम् अदन्त्यम्। अकर्ण्यम्।
अतदर्थे इति किम्? पादार्थमुदकं पाद्यम्, न पाद्यम् अपाद्यम्। तद्धिता इत्येव, अदेयम्। गुणप्रतिषेधे इत्येव, दन्त्यादन्यददन्त्यम्। निरनुबन्धकैकानुबन्धकयोर् ययतोर् ग्रहणादिह न भवति, वामदेवाड्ड्यड्ड्यौ
४।२।५ वामदेव्यम्, न वामदेव्यम् अवामदेव्यम् इति।
"पाश्या" इति। प्रत्ययस्वरेणान्तोदात्तत्वम्()। "अदन्त्यम्()" इति। "यतोऽनावः"
६।१।२०७ इत्याद्युदात्तत्वम्()। एवम्()--"अकण्र्यम्()" इत्येतदपि तद्वदेवाद्युदात्तम्()।
"पाद्यम्()" इति। "पादार्धाभ्याञ्च"
५।४।२५ इति यत्()।
"दन्त्यादन्यददनत्यम्()" इति।
अत्र दन्त्यादन्यत्र नञ्? वर्तते, न तु तदन्तस्य प्रतिषेदे। "अदेयम्()" इति। "अर्हे कृत्यतृचश्च"
३।३।१६९ इत्यत्रार्हार्थे यत्(), "ईद्यति"
६।४।६५ इतीत्त्वम्()।
अथेह कस्मान्न भवति--वामदेवेन दृष्टं साम वामदेव्यम्()? इत्यत आह--"निरनुबन्धक" इत्यादि। गतार्थम्()॥